वांछित मन्त्र चुनें
आर्चिक को चुनें

अ꣡द꣢र्शि गातु꣣वि꣡त्त꣢मो꣣ य꣡स्मि꣢न्व्र꣣ता꣡न्या꣢द꣣धुः꣢ । उ꣢पो꣣ षु꣢ जा꣣त꣡मार्य꣢꣯स्य व꣡र्ध꣢नम꣣ग्निं꣡ न꣢क्षन्तु नो꣣ गि꣡रः꣢ ॥४७॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अदर्शि गातुवित्तमो यस्मिन्व्रतान्यादधुः । उपो षु जातमार्यस्य वर्धनमग्निं नक्षन्तु नो गिरः ॥४७॥

मन्त्र उच्चारण
पद पाठ

अ꣡द꣢꣯र्शि । गा꣣तुवि꣡त्त꣢मः । गा꣣तु । वि꣡त्त꣢꣯मः । य꣡स्मि꣢꣯न् । व्र꣣ता꣡नि꣢ । आ꣣दधुः꣢ । आ꣣ । दधुः꣢ । उ꣡प꣢꣯ । उ꣣ । सु꣢ । जा꣣त꣢म् । आ꣡र्य꣢꣯स्य । व꣡र्ध꣢꣯नम् । अ꣣ग्नि꣢म् । न꣣क्षन्तु । नः । गि꣡रः꣢꣯ ॥४७॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 47 | (कौथोम) 1 » 1 » 5 » 3 | (रानायाणीय) 1 » 5 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

परमेश्वर की हमें स्तुति-वाणियों से पूजा करनी चाहिए, यह कहते हैं।

पदार्थान्वयभाषाः -

(गातुवित्तमः) सबसे बढ़कर कर्तव्य-मार्ग का प्रदर्शक वह अग्रणी परमेश्वर (अदर्शि) हमारे द्वारा साक्षात् कर लिया गया है, (यस्मिन्) जिस परमेश्वर में, मुमुक्षुजन (व्रतानि) अपने-अपने कर्मों को (आदधुः) समर्पित करते हैं अर्थात् ईश्वरार्पण-बुद्धि से निष्काम कर्म करते हैं। (उ) और (सुजातम्) भली-भाँति हृदय में प्रकट हुए, (आर्यस्य) धार्मिक गुण-कर्म-स्वभाववाले, ईश्वर-पुत्र आर्यजन के (वर्द्धनम्) बढ़ानेवाले (अग्निम्) ज्योतिर्मय, नायक परमेश्वर को (नः) हमारी (गिरः) स्तुति-वाणियाँ (उप-नक्षन्तु) समीपता से प्राप्त करें ॥३॥

भावार्थभाषाः -

मोक्षार्थी मनुष्य फल की इच्छा का परित्याग करके परमेश्वर में अपने समस्त कर्म समर्पित कर देते हैं और परमेश्वर सदैव प्रज्वलित दीपक के समान उनके मन में कर्तव्याकर्तव्य का विवेक पैदा करता है। सब आर्य गुण-कर्म-स्वभाववालों के उन्नायक उसकी स्तुति से हमें अपने हृदय को पवित्र करना चाहिए ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

परमेश्वरोऽस्माभिः स्तुतिवाग्भिरर्चनीय इत्याह।

पदार्थान्वयभाषाः -

(गातुवित्तमः२) गच्छन्ति अत्र इति गातुः मार्गः तस्य अतिशयेन वेदयिता ज्ञापयिता, कर्तव्यमार्गप्रदर्शक इति भावः, सोऽग्निः परमेश्वरः (अदर्शि) अस्माभिः साक्षात्कृतः, (यस्मिन्) अग्नौ परमेश्वरे मोक्षार्थिनो जनाः (व्रतानि) स्वस्वकर्माणि। व्रतमिति कर्मनाम। निघं० २।१। (आदधुः) स्थापयन्ति, समर्पयन्ति ईश्वरार्पणबुद्ध्या निष्कामकर्माणि कुर्वन्तीत्यर्थः। (उ३) अथ च (सुजातम्) सम्यक् हृदये प्रकटीभूतम् (आर्यस्य४) धर्म्यगुणकर्मस्वभावस्य ईश्वरपुत्रस्य। अर्य इति ईश्वरनाम। निघं० २।२२। आर्यः ईश्वरपुत्रः। निरु० ६।२६। वर्धनम् वर्द्धयितारम् (अग्निम्) ज्योतिर्मयं नायकं परमेश्वरम् (नः) अस्माकम् (गिरः) स्तुतिवाचः (उप नक्षन्तु) उपगच्छन्तु, सामीप्येन प्राप्नुवन्तु। नक्षतिः गतिकर्मा। निघं० २।१४ ॥३॥

भावार्थभाषाः -

मोक्षार्थिनो मानवाः फलेच्छां परित्यज्य परमेश्वराय स्वकीयानि समस्तानि कर्माणि समर्पयन्ति। परमेश्वरः सदैव प्रज्वलितः प्रदीपवत् तेषां मनसि कर्तव्याकर्तव्यविवेकं जनयति। सर्वेषामार्यगुणकर्म- स्वभावानामुन्नायकस्य तस्य स्तुत्याऽस्माभिः स्वहृदयं पावनीयम् ॥३॥

टिप्पणी: १. ऋ० ८।१०३।१ नक्षन्तु इत्यत्र नक्षन्त इति पाठः। साम० १५१५। २. अतिशयेन मार्गलम्भकः—इति भ०। कै गै रै शब्दे इत्येतस्य रूपम्। गातुः शब्दयिता, स्तुतीनामुच्चारयिता। तं यो वेत्ति स गातुवित्। अतिशयेन गातुवित् गातुवित्तमः—इति वा०। अतिशयेन मार्गाणां ज्ञाता—इति सा०। ३. उप उ सु त्रयोऽपि पूरणाः—इति वि०। उपो उप-उ इति निपातद्वयसमुदायः। उपनक्षन्तु, नक्षतिः व्याप्तिकर्मा, उपव्याप्नुवन्तु—इति भ०। ४. आर्यः धर्म्यगुणकर्मस्वभावः इति य० ३३।८२ भाष्ये द०। आर्यस्य यजमानस्य—इति वि०। यज्ञशीलस्य—इति भ०। उत्तमवर्णस्य—इति सा०।